________________ (10) अवर्णस्य एकारकाराभ्यां तथौकारौकाराभ्यां सह यथासंख्यं ऐ औ इत्येतौ स्याताम् / तव+एषा-तवैषा, तव+ऐश्वर्यम्-तवैश्वर्यम् , तव+ओदनः-तबौदनः, रमा+ओदन:-रमौदन , तव+औन्नत्यम्तवौन्नत्यम् , खट्वा+औन्नत्यम्-खट्वौन्नत्यम् / स्वरैस्वैर्यक्षौहिण्याम् / 1 / 2 / 15 / स्वैर स्वैरिन् अक्षौहिणी इत्येतेषु अवर्णस्य परेण स्वरेण सह ऐ औ इत्येतौ स्याताम् / स्व+ईरः-स्वैरः, स्व+ईरिणी-स्वैरिणी अक्ष+उहिणी-अक्षौहिणी सेना। , एदोतः पदान्तेऽस्य लुक् / 1 / 2 / 27 / पदान्ते स्थिताभ्यामेकारौकाराभ्यां परस्याकारस्य लुक्स्यात् / ते अत्र-तेऽत्र, पटो+अत्र-पटोऽत्र। 'शकन्ध्वादिषु टेर्लोपो वाच्यः' शक+अन्धुः शकन्धुः, कर्क+अन्धुः-कर्कन्धुः, कुल+अटा-कुलटा, हल ईषा- हलीषा, मनस्+ईषा-मनीषा, सीमन्+अन्तः-सीमन्तः, आकृतिगणोऽयमिति एतादृशाः प्रयोगा अन्येऽपि मार्तण्ड इत्या. दयः शकन्ध्वादिगणे ज्ञातव्याः / ओमाङि / 1 / 2 / 18 / अवर्णस्य लोपः स्यादोमि आङादेशे च परे / अद्य+ओम्अद्योम् , आ+उढा-ओढा-अद्योढा / ऋत्यारुपसर्गस्य / 1 / 2 / 9 / /