________________ (9) स्वरे वाऽनक्षे / 1 / 2 / 29 / __. अक्षशब्दवर्जिते स्वरे परे गोरोकारस्यावादेशो वा स्यात् / गो+अजिनम्-गवाजिनम् , गो+अग्रम्-गवाग्रम , 'वाऽत्यसन्धिः ' इत्यनेन वा प्रकृतिभावे च गोअग्रम् , पक्षे 'एदोतः पदान्तेऽस्य लुक' इति लुकि गोऽयम् / गो+इंगितम्-गवेङ्गितम् / - इन्द्रे च / 1 / 2 / 30 / इन्द्रशब्दे परे पदान्तस्थस्य गोरोकारस्य नित्यमवादेशः * स्यात् / गवेन्द्रः / अवर्णस्येवर्णादिनैदोदरल् / 1 / 2 / 6 / ___. अवर्णस्य इवर्ण-उवर्ण-ऋवर्ण-लवर्णैः सह यथासंख्यमेद् ओत् अर् अल् इत्येते आदेशाः स्युः / तव+इदम्-तवेदम् , मम +उदकम्-ममोदकम् ,गङ्गा+उदयः-गंगोदयः,तव+ऋद्धिः-तवर्द्धिः, मम+ऋद्धिः-ममर्द्धिः, तव लकारः-तवल्कारः, मम+लकारःममल्कारः / समानानां तेन दीर्घः / 1 / 2 / 1 / समानानां तेन परेण समानेन सह दीघः स्यात् / दण्ड+ अग्रम्-दण्डाग्रम् , दधि+इदम-दधीदम् , मधु+उदकम्-मधूकम् , पितृ ऋकारः-पितृकारः / ऐदौतौ सन्ध्यक्षरैः / 1 / 2 / 12 /