________________ ॥रा, ल्यूात. काशद्वयम् / (8) एदेतोऽयाय / 1 / 2 / 23 / / एकारैकारयोः स्याने स्वरे परे यथासंख्यमयाय् इत्येतौ स्याताम्। ने+अनम्-नयनम् , ए+अनम्-अयनम् , नै+अकः-नायकः, रै+अकः-रायकः / ओदौतोऽवाव / 1 / 2 / 24 / . ओकारौकारयोः स्थाने यथासंख्यमवावौ स्यातां स्वरे परे / लो+अनम्-लवनम् , पो+अनम्-पवनम् , लो+अकः-लावकः, पौ+अकः-पावकः / गोशब्दस्य यूतिशब्दे परेऽध्वपरिमाणे चौकारस्यावादेशः, गव्यूतिः क्रोशद्वयम् / स्वरे वा / 1 / 3 / 24 / अवर्णात् परयोः पदान्तस्थयोर्यकारवकारयोः स्वरे परे वा लुक् स्याद् न च सन्धिः / ते आगताः इति स्थिते एदैतोऽयाय / इति अयादेशे तय् आगताः, अनेन वा लुकि त आगताः, तयागताः / पटो इह इति स्थिते / ओदौतो' इत्यादिना अवादेशे पटव्+इह इति जाते वा लुकि पट इह पटविह / एवं तस्मै / इदम्-तस्मा - इदं तस्मायिदम् , तौ इह-ता इह-ताविह / गोर्नाम्न्यवोऽक्षे / 1 / 2 / 28 / पदान्तस्थस्य गोरोकारस्याक्षशब्दे परे संज्ञायामव इत्यकारान्त आदेशः स्यात् / गो+अक्षः अनेनावादेशे कृते 'समानानाम् ' इत्यादिना दीर्धे कृते गवाक्षः वातायनः / /