________________ (7) अदीर्घाद् विरामैकव्याने / 1 / 3 / 32 / दीघवर्जितात् स्वरात् परस्य रकार-हकार- स्वरवनितस्य वणस्य द्वे रूपे वा स्यातां विरामे असंयुक्तव्यञ्जने च परे / इति धकारस्य वा द्वित्वे दध्ध्य+अत्र इति नाते तृतीयस्तृतीयचतुर्थे / 1 / 3 / 49 / धुटः स्थाने तृतीये चतुर्थे च परे तृतीयः स्यात्। इति प्रथमधकारस्य दत्वे दद्ध्य्+अत्र इति जाते स्वरहीनं परेण संयोज्यं दद्ध्यत्र इति सिद्धम् / नहि+अत्र इति स्थिते ‘इवर्णादीनामस्वे स्वरे' इत्यादिना यत्वे नय्+अत्र इति जाते -- अदीर्घाद् ' इत्यादौ रकार-हकार-स्वरवर्जनाद् नह इत्यस्य न द्वित्वं किन्तु तत्र हदिईस्वरस्यानु नवा / 1 / 3 / 31 / स्वरात् पराभ्यां रेफ हकाराभ्यां परस्य रेफ-हकार-स्वरवर्जितस्य वर्णस्य द्वे रूपे वा स्याताम् / इति यकारस्य द्वित्वे नय्यत्र इति सिद्धम् / एवं गौरी+अत्र-गौर्यत्र जलालाबुन्यायेन रेफस्योर्ध्वगमनम् , उक्तं च शास्त्रान्तरेऽपि "तुम्बिका-तण-काष्ठं च तैलं जलसमागमे / ऊर्ध्वस्थान समायान्ति रेफाणामीदृशी गतिः" // 1 // पक्षे दध्यत्र नह्यत्र गौर्यत्र / एवं मधु+अत्र- मद्ध्वत्र, मध्वत्र / पितृ+अर्थ:-पित्रयः। ल+अनुबन्धः-लनुबन्धः / लु+आकृतिःलाकृतिः इत्यादीनामपि यथासूत्रप्राप्ति सिद्धिर्ज्ञातव्या।