________________ पुरो वर्णानुच्चारणमवसानं विरामः / स्यमौजसः पुंस्त्रियोः, नपुंसके जस्शसादेशः.शिश्च घुटसंज्ञकाः, संबोधनार्थ सिं विना घुटः शेषघुटसंज्ञकाः। अन्त्या वर्णात् पूर्वो वर्ण उपधा। अननुस्वारादिपरो हस्वो लघुसंज्ञकः। दी| गुरुसंज्ञकः, अनुस्वार-विसर्ग-संयोगपरो ह्रस्वोऽपि गुरुः / स्वरानन्तरितव्यञ्जनसमुदायः संयोगः / शत्रुवद् आदेशः / मित्रवद् आगमः / लुक् लुप् लोपश्च अदर्शनम् / अन्त्यस्वरात् परस्य अन्त्यस्वरस्य च टिसंज्ञा, इत्यादयोऽनुक्ता उक्ताश्च. संज्ञा वेदितव्याः / इति संज्ञाप्रकरणम् / अथ स्वरसन्धिः / दधि+अत्र इति स्थिते इवर्णादेरस्वे स्वरे यवरलम् / 1 / 2 / 21 / . इवर्गोवर्णऋवर्णलवर्णानामस्वे स्वरे यथासंख्यं यवरला इत्येते आदेशाः स्युः, संहिताया विषये / यदुक्तम् "संहितैकपदे नित्या नित्या धातूपसर्गयोः / नित्या समासे वाक्ये तु सा विवक्षामपेक्षते // 1 // " ध्य+अत्र इति जाते