________________ "हकारं पञ्चमैयुक्तमन्तस्यैश्च संयुतम् / उर संस्थं विजानीयात् कण्ठ्यमाहुरसंयुतम्" // 1 // अथास्यप्रयत्नः-स्पृष्टकरणं स्पर्शानाम् , ईषत्स्पृष्टकरणमन्तस्थानाम् , ईषद्विवृतकरणमूष्मणाम् , विवृतकरणं स्वराणाम् / तत्र क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ व भ म एते स्पर्शाः / य र ल वा ईषत्स्पृष्टाः / श ष स हा एत उष्माणः / स्वरा विवृताः, तत्राकारस्तावत् त्रिविधः, उदात्तानुदात्तस्वरितभेदात् ; प्रत्येकं सानुनासिकनिरनुनासिकभेदात् षोढा, एते हस्वस्य भेदाः / एवं दीर्घप्लुतयोरपि तथा चाष्टादश भेदा अवर्णस्य ज्ञातव्याः। एवमिवर्णादीनामपि तावन्तो भेदा विज्ञेयाः / सन्ध्यक्षराणां हस्वा न सन्तीति तेषांद्वादश भेदाः सन्ति / वाः पञ्च पञ्च परस्परं स्वसंज्ञकाः / यवलानां सानुनासिक-निरनुनासिकभेदौ मिथः स्वौ / ___अप्रयोगीत् / 1 / 1 / 37 / __इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा कार्यार्थ गृहीतः सन्लौकिकप्रयोगे न दृश्यते स एति-अपगच्छतीति इत्संज्ञक: स्यात् / गुणोऽरेदोत् / 3 / 3 / 2 / . अर् एत् ओत् इत्येते प्रत्येकं गुणसंज्ञकाः स्युः / / - वृद्धिरादौत् / 3 / 3 / 1 / - आ आर ऐ औ इत्येते प्रत्येकं वृद्धिसंज्ञकाः स्युः / एवं स्यादयस्त्यादयश्च विभक्तिसंज्ञकाः, विभक्त्यन्ताः पदसंज्ञकाः,