________________ अघोषादन्ये वर्णा घोषवत्संज्ञकाः स्युः / ग घ ङ ज झ ञ ड ढ ण द ध न ब भ म य र ल ब ह इति / अं xकरपशषसाः शिद / 1 / 1 / 16 / अकपा उच्चारणार्थाः, अनुस्वारविसर्गौ वज्रगनकुम्भाकृती शषसाश्च वर्णाः शिट्संज्ञकाः स्युः। य-र-ल-वा अन्तस्थाः / 1 / 1 / 15 / / निरनुनासिक-सानुनासिकभेदभिन्ना य-र-ल-वा अन्तस्थासंज्ञकाः स्युः। तुल्यस्थानास्यप्रयत्नः स्वः / 1 / 1 / 17 / / भाषावर्गणापुद्गलस्कन्धस्य यत्र वर्णभावापत्तिस्तत् स्थानम् / आस्ये मुखे प्रयत्न आस्यप्रयत्नः, आन्तरिकव्यापारविशेषः / तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञकः स्यात् / तत्र वर्णानां स्थानानि "अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च"॥१॥ . अवर्ण-कवर्ग-ह-विसर्गाः कण्ठस्थानाः, इवर्ण-चवर्ण-य-शास्तालव्याः , उवर्ण-पवर्गोपध्मानीया ओष्ठस्थानाः, ऋवर्ण-टवर्ग-र-षा मूर्धन्याः, लवर्ण-तवर्ग-ल-सा दन्त्याः , ए ऐ तालव्यौ, ओ औ ओष्ठ्यौ, वकारो दन्त्यौष्ठयः, जिह्लामूलीयो जिह्वयः, नासिक्योऽनुस्वारः, अणनमाः स्वस्वस्थाना नासिकास्थानाश्च / वर्गाणां पञ्चमैर्युक्तोऽन्तस्यैश्च युक्तो हकार उरःस्थानीयः, तदुक्तम्