________________ (23) आशीये च परे गुणो भवति / स्मर्यात्, स्मर्यास्ताम् , स्मर्यासुः / स्मर्ता। हनृतः स्यस्य / 4 / 4 / 49 / हन्तेः ऋदन्ताच्च धातोः परस्य स्यप्रत्ययस्यादिरिड् भवति / स्मरिष्यति / अस्मरिष्यत् / अद्यतन्यां सिचि 'सिचि परस्मै समानस्याङिति ' इति वृद्धौ अस्मार्षीत्, अस्मार्टाम्, अस्मार्षः / अस्मार्षीः, अस्माष्टम्, अस्मार्ट / अस्मार्षम् , अस्माल, अस्माम। 'धू सेचने' / गरति / गरेत् / गरतु / अगरत् / जगार, जग्रतुः, जग्रुः / जगर्थ, जग्रथुः, जय / जगार जगर, जग्रिव जग्रिम / रिः शक्याशीयें / 4 / 3 / 110 / ऋदन्तस्य धातोः ऋतः शे क्ये आशीर्ये च परे रिः भवति। नियात् / गर्ता / गरिष्यति / अगरिष्यत् / अगार्षीत् / घरति / घरेत् / घरतु / अघरत् / जघार / घ्रियात् / घर्ता / घरिष्यति / अपरिष्यत् / अघार्षीत् / 'औस्व शब्दोपतापयोः' / स्वरति / स्वरेत् / स्वरतु / अस्वरत् / सस्वार, सस्वरंतुः, सस्वरिथ, सस्वरिव सस्वरिम / स्वर्यात् , स्वर्यास्ताम् , स्वर्यासुः / धूगौदितः / 4 / 4 / 38 / धूग्धातोरौदितश्च परस्य स्ताद्यशित आदिरिड् वा भवति / स्वरिता स्वर्ता / स्यप्रत्यये तु परत्वाद् नित्यमिड् / स्वरिष्यति / अस्वरिष्यत् / अद्यतन्यामिडागमे अस्वारीत्, अस्वारिष्टाम् ,