________________ (22) सवति। सवेत् / सवतु / असवत् / सुसाव / सूयात् / सोता। सोष्यति / असोष्यत् / अद्यतन्याम् धूमुस्तोः परस्मै / 4 / 4 / 85 / - एभ्यः परस्य परस्मैपदविषये सिच आदिरिड् भवति / असावीत् , असाविष्टाम्, असाविषुः। असावीः, असाविष्टम्, असाविष्ट / असाविषम्, असाविष्व, असाविष्म / 'स्मं चिन्तायाम्-स्मरति / स्मरेत् / स्मरतु / अस्मरत् / परोक्षायां द्वित्वे ऋतोऽत् / 4 / 1 / 38 / . द्वित्वे सति पूर्वस्य ऋकारस्यादित्यादेशो भवति / सस्मार / संयोगादृदत्तः / 4 / 3 / 9 / / संयोगात् परो य ऋत् तदन्तस्यार्तेश्च धातोः परोक्षायां. गुणो भवति / न तु कोपलक्षितायाम् / सस्मरतुः / सस्मरुः / ऋतः / 4 / 4 / 79 / ऋदन्तात् तृनित्यानिटो विहितस्य थव आदिरिड् न भवति / सस्मर्थ, सस्मरथुः, सस्मर / सस्मार सस्मर, सस्मरिव, सस्मरिम / / क्ययङाशीयें। 4 / 3 / 10 / . . संयोगात् परो य ऋकारस्तदन्तस्यात्तेश्च धातोः क्ये यकि