SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ (17) गहोजः।४।१।४० / द्वित्वे सति पूर्वस्य गकारहकारयो देशो भवति / जघ्रा+णवू इति स्थिते ' आतो णव औः ' इति णवः स्थाने औकारादेशे जघ्रौ / ' इडेत्पुसि चातो लुक्' इत्याकारस्य लुकि जघ्रतुः, जः। जघ्रिथ जघ्राथ, जघ्रथुः, जघ्र / जघ्रौ, जघ्रिव, जघ्रिम / आशिषिघा+यात् इति स्थिते संयोगादेर्वाऽऽशिष्यः / 4 / 3 / 95 / / संयोगादेरादन्तस्य धातोः ङिति आशिषि एकारो वा भवति / प्रेयात् , घेयास्ताम् , घेयासुः। घेयाः प्रेयास्तम् , प्रेयास्त / प्रेयासम् , प्रेयास्व, घेयास्म / पक्षे घायात, घ्रायास्ताम्, घ्रायासुः / श्वस्तनी-घ्राता, घातारौ, घ्रातारः / घ्रातासि घातास्थः घातास्थ / घ्रातास्मि घातास्वः घातास्मः / भविष्यन्तीघ्रास्यति, घास्यतः, घ्रास्यन्ति / घ्रास्यसि, घ्रास्यथः, घास्यथ / भ्रास्यामि, घ्रास्यावः, घ्रास्यामः / क्रियातिपत्तिः--अघ्रास्यत्, अघ्रास्यताम्, अघ्रास्यन् / अघ्रास्यः, अघ्रास्यतम्, अघ्रास्यत / अघ्रास्यम्, अघ्रास्याव, अघ्रास्याम / अद्यतन्याम् धेघाशाच्छासो वा / 4 / 3 / 67 / " एभ्यः परस्य सिचो लुब् वा भवति परस्पैपदे। लुब्योगे बेड न भवति / अघ्रात् , अघ्राताम्, 'सिजविदोऽभुवः / अघ्रः। अघ्राः अघातम्, अघ्रात / अघ्राम्, अघ्राव, अघ्राम / पक्षे 2
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy