________________ बन्धिबुध्यरुधयः धिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती / आपिना तपिशपिंक्षिपिछुपों लुम्पतिः मृपिलिपी वपिस्वपीं // 5 // यभिरभिलभियमिरमिनमिगमयः क्रशिलिशिरुशिरिशिदिशतिदशयः। पशिमृशतिविशतिदृशिशिष्लशुषयस्त्विषिपिषिविप्लकृषितुषिदुषि . पुषयः // 6 // श्लिष्यतिविषिरतो घसिवसती रोहति हिरिही अनिड् गदितौ / देग्धिदोग्धिलिहयो मिहिवहती नातिर्दहिरिति स्फुटमनिटः // 7 // __अनिट्कारिकायाः संक्षेपतोऽर्थः प्रदर्श्यते-दर्शितात् परे ये स्वरान्ता धातवस्ते सर्वेऽनिटः स्युः, ये च दर्शिताः श्चि आदयस्ते सेटः, दीर्घोकारान्ते दीर्घारान्ते च युनादौ च सर्वे सेटः / पाठेधातुपाठेऽर्थादुपदेशावस्थायां ये एकस्वरा अनुस्वारेतश्च धातवस्ते सर्वेऽनिटो भवन्ति / व्यजनान्ते तु ये दर्शितास्ते सर्वेऽनिटः स्फुरन्ये सेटः स्युरिति / __घां गन्धोपादाने-वर्तमानकालविवक्षायां तिवि शवि श्रौतिकृवु ' इत्यादिना निघ्रादेशे जिघ्रति, निम्रतः, जिघ्रन्ति / जिघ्रसि, निघ्रयः, जिघ्रथ / जिघ्रामि, जिघ्रावः, जिघ्रामः। सप्तमी जिप्रेत्। पञ्चमी निघ्रतु / ह्यस्तनी अडागमे अजिघ्रत्, अजिघ्रताम्, अजिनन् / अजिघ्रः,अजिघ्रतम्, अजिघ्रत / अजिघ्रम्, अजिघ्राव, अजिघ्राम / परोक्षा-घ्रा+णव् द्वित्वे पूर्वस्य हूस्वे 'द्वितीयतुर्ययोः पूर्वी ' इति घकारस्य गकारे