________________ (18) यमिरमिनम्यातः सोऽन्तश्च / 4 / 4 / 86 / एभ्य आकारान्तेभ्यश्च परस्य परस्मैपदे सिच आदिरिड् भवति / एषां च सोऽन्तः / अडागमे अघ्रा+स+३+स+द् इति स्थिते सः सिजस्तेर्दिस्योः / 4 / 3 / 65 / सिजन्तादस्तेश्च सकारांन्ताद् धातोः परयोः दिस्योरादिरीकारो भवति / इट ईति / 4 / 3 / 71 / इटः परस्य सिज ईति परे लुग् भवति / दीर्घ च कृते अघ्रासीद्, अघ्रासिष्टाम् , अन्नासिषुः / अघ्रासीः, अघ्रासिष्टम्, अघ्रासिष्ट / अघ्रासिषम्, अघ्रासिष्व, अघ्रासिष्म / 'मां शब्दाग्निसंयोगयोः '-धमादेशे धमति / धमेत् / धमतु / अधमत् / अध्मासीत्, अध्मासिष्टाम्, अध्मासिषुः / परोक्षायां द्वित्वे अनादिव्यअनस्य लुकि हूस्वे चतुर्थस्य तृतीये णवश्वौकारे दध्मौ, आकारलोपे दध्मतुः, दध्मुः / दधिमथ, दध्माथ, दध्मथुः, दध्म / दध्मो, दध्मिव, दध्मिम / ध्मेयात्, ध्मायात् / ध्माता / धमास्यति / अध्मास्यत् / 'ष्ठां गतिनिवृत्तौ-'श्रौतिकृयु-1 इत्यादिना तिष्ठादेशे तिष्ठति / तिष्ठेत् / तिष्ठतु। अतिष्ठत् / परोक्षायां 'पः सोऽष्टयैष्ठिवष्वष्कः' इति सत्वे स्था+स्था+णव् इति स्थिते अघोषे शिटः / 4 / 1 / 45 /