________________ चने भवसि, द्विवचने भवथः, बहुवचने भवथ / उत्तमपुरुषैकवचने भव, मि इति स्थिते . मव्यस्याः / 4 / 2 / 113 / ... धातोविहिते वादौ मादौ प्रत्यये परेऽकारस्याकारो भवति / भवामि, भवावः, भवामः / अन्यपुरुषेऽन्यत्वं युष्मदस्मच्छब्दापेक्ष तथा. च भवच्छब्देनोच्यमानो न युष्मदर्थः / भवान् भवति, भवन्तौ भवतः, भवन्तो भवन्ति / विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने / 5 / 4 / 28 विधिः क्रियायां प्रेरणा, यस्याः प्रेरणायाः प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् , यस्यां प्रेरणायां प्रत्याख्याने कामचारस्तदामन्त्रणम् , सत्कारपृर्विका प्रेरणा अधीष्टम् , संप्रधारणा संप्रमा, याचा प्रार्थनम् / विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु सप्तमीपञ्चम्यौ भवेताम् / सप्तमी यात् याता युस् , यास् यातं यात, यां याव याम / ईत ईयाताम् इरन, ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि / 3 / 3 / 7 / यातादीनां सप्तमीसम्ज्ञा भवति, अन्येषां मते विधिलिसम्ज्ञा / भव+यात् इति स्थिते... या सप्तम्याः / 412 // 122 / / . अकारात् परस्य सप्तम्या याशब्दस्य इकारादेशो भवति /