________________ स्वं पचसि, युवों पचयः, यूयं पचथ / अस्मदर्थे-अहं पचामि, आवां पचावः, वयं पचामः / एवं सर्वत्र / द्वयोः त्रयाणां चा युगपद योगे सूत्रापेक्षया पराश्रितमेव वचनम् स च त्वं च पचयः, अत्र,पचत इति न भवति, सूत्रे युष्मदः परपठितत्वेन तदाश्रितस्यैव द्विवचनस्य भवनात् / स च त्वं चाहं च पचामः / - एकद्विबहुषु / 3 / 3 / 18 / अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तानि एकद्विबहुष्वर्थेषु यथासंख्यं भवन्ति / अर्थादेकस्मिन्नर्थे एकवचनं द्वयोर्द्विवचनं बहुषु च बहुवचनम् / 'मू सत्तायाम् ' भू इति परस्मैपदिनो धातोः कर्तरि तिवादयो भवन्ति / तत्रैकत्वविवक्षायां भू+तिव् इति स्थिते कारो वित्कार्यार्थः / कर्तर्यनद्यः शत् / 3 / 4 / 71 / अदादिवर्जाद् धातोः कर्तरि शव् प्रत्ययो भवति शिति परे / शकारवकारौ शिद्वित्कार्यायौँ / भू+अ+ति इति स्थिते गुणोऽरेदोत् / 3 / 3 / 2 / / अर् एत् ओत् एते प्रत्येकं गुणसञ्जका भवन्ति / नामिनो गुणोऽक्ङिति / 4 / 3 / 1 / किद्विर्जिते प्रत्यये परे नाम्यन्तस्य धातोर्गुणो भवति, स चासन्नः। भो+अ+ति अवादेशे भवति / द्वित्वविवक्षायां भवतः। बहुत्वे भव+अन्ति “लुगस्यादेत्यपदे ' भवन्ति / मध्यमपुरुषैकव