________________ ईकारेतो गकारेतश्च धातोः कर्तर्यात्मनेपदं वा भवति / शेषात् परस्मै / 3 / 3 / 100 / पूर्वोक्तनिमित्तरहिताद् धातोः कर्तरि परस्मैपदं भवति / नवाऽऽद्यानि शतृक्वसू च परस्मैपदम् / 3 / 3 / 19 / सर्वासां विभक्तीनां मध्ये आद्यानि नव नव वचनानि शतृक्वसू च प्रत्ययौ परस्मैपदं भवति / पराणि कानानशौ चात्मनेपदम् / 3 / 3 / 20 / सर्वासां विभक्तीनां मध्ये पराणि नव नव वचनानि कानानशौ च प्रत्ययौ आत्मनेपदं भवति / वर्तमानातिय, तस्, अन्ति; सिक् , थस् , थ; मिन् , वस् , मस् / ते, आते, अन्ते से, आथे, ध्वे; ए, वहे, महे / 3 / 3 / 6 / तिवादीनां वर्तमानासञ्ज्ञा भवति, केषांचिद् मते एवां सज्ञा लट् / प्रारब्धापरिसमाप्तो वर्तमानस्तदर्थाद् धातोर्वर्तमाना विधेया / त्रीणि त्रीण्यन्ययुष्मदस्मदि / 3 / 3 / 17 / / सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नयें युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं भवन्ति / प्रथमपुरुष-मध्यमपुरुषोत्तमपुरुष इति अन्य-युष्मदस्मदां यथाक्रमं नामान्तराणि / अन्यस्मिन् वाच्ये-स पचति, तौ पचतः, ते पचंन्ति / युष्मदि