________________ (237) अस्य णीष्ठेयसुषु परेषु श्रादेशो भवति / श्रेष्ठः, श्रेयान् / ___ वृद्धस्य च ज्यः / 7 / 4 / 35 / अस्य प्रशस्यस्य च णीष्ठेयसुषु ज्यादेशो भवति / ज्येष्ठः / अयमेषामतिशयेन वृद्धः ज्येष्ठः / 'ईयसौ तु अनयोः ज्यायान् इति निपात्यः' अयमनयोरेषां वाऽतिशयेनान्तिक इति इष्ठेयसौ परे बाढान्तिकयोः साधनेदौ / 7 / 4 / 37 / अनयोग्रॅदौ परे यथासंख्यं साधनेदावादेशौ भवतः / नेदी-- . यान्, नेदिष्ठः / अयमेषामनयोर्वाऽतिशयेन युवा इति इष्ठेयसौ परे अल्पयूनोः कन् वा / 7 / 4 / 33 / / अनयोर्णीष्ठेयसुषु परेषु कन् वा भवति / कनिष्ठः, कनीयान्। पक्षे युदन्+इष्ठ इति स्थितेस्थूलदूरयुवहस्वक्षिपक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः।७।४।४। __एषामिमनि णीष्ठेयसुषु च परेषु अन्तस्थादेवयवस्य लुग नामिनश्च गुणो भवति / यविष्ठः, यवीयान् / एवं स्थविष्ठः, स्थवी. यान / दविष्ठः, दवीयान् / हसिष्ठः इसीयान् / क्षेपिष्ठः क्षेपीयान्। सोदिष्ठः, क्षोदीयान् / 'णीष्ठेयसुषु विन्मतोटुंब वाच्य.' अयमेषामनयोऽतिशयेन स्रग्वी स्रजिष्ठः, सजीयान् / एवं त्वचिष्ठः, स्वचीयान् / अतिशयेन गुरुः गरिष्ठः, शरीयान् /