________________ (236) प्रकृतेऽर्थे वर्तमानादस्मिन्नित्यर्थे मयड् भवति / प्रकृतमन्नमसिमन् अन्नमयं भोजनम् / प्रधाना अपूपा यस्मिन् तद् अपूपमयं पर्व / निन्द्ये पाशप् / 7 / 3 / 4 / . निन्द्येऽर्थे वर्तमानात् स्वार्थे पाशब् भवति / निन्द्यो वैयाकरणो वैयाकरणपाशः / नैयायिकपाशः / / ___ प्रकृष्टे तमप् / 7 / 2 / 5 / प्रकृष्टेऽर्थे वर्तमानाद् नाम्नः तमप् प्रत्ययो भवति / अयमेषां प्रकृष्टः शुक्ल: शुक्लतमः / एवं साधकतमः, कारकतमः, उपकारकतमः / द्वयोविभज्ये च तरप् / 7 / 3 / 6 / द्वयोर्गुणयोरर्थयोर्मध्ये. यः प्रकृष्टस्तस्मिन् द्वयोर्विभज्ये च वर्तमानातू तरप् प्रत्ययो भवति / अनयोरयं प्रकृष्टः पटुः पटुतरः, सुकुमारतरः, साङ्काश्येभ्यः पाटलिपुत्रका आत्यतराः / वचित स्वार्थेऽपि अभिन्नमेवाभिन्नतरकम् , उच्चैस्तराम् / गुणागाद् वेष्ठेयम् / 7 / 3 / 9 / गुण एवाङ्गं प्रवृत्तौ हेतुर्यस्य तस्मात् तमप्तरपोर्विषये यथासंख्यमिष्ठ ईयसुश्च भवतः / अयमेषामतिशयेन पटुरिति पटिष्ठः, पटुतमः / अयमनयोरतिशयेन पटुरिति पटीयान् , पटुतरः / अयमेषामनयोर्वाऽतिशयेन प्रशस्य इति इंष्ठेयसौ परे प्रशस्यस्य श्रः / / 4 / 34 /