________________ ( 234) तीयान्ताच्छम्बबीजाभ्यां च कृगा योगे कृषौ विषये डाच् भवति / द्वितीयाकरोति द्वितीयवारं कर्षतीत्यर्थः / शम्बाकरोति क्षेत्रम्-अनुलोमकृष्टं पुनस्तिर्यक् कर्षतीत्यर्थः / बीनाकरोतिउप्ते सति पश्चाद् बीमैः कर्षतीत्यर्थः / / प्रियमुखादानुकूल्ये / 7 / 2 / 140 / आभ्यां कृगा योगे आनुकूल्ये गम्ये डाच् भवति / प्रिया. करोति, सुखाकरोति गुरुम् / 'दुःखात् प्रातिकूल्ये डाच् वाच्यः' दुःखाकरोति शत्रुम् / बहल्पार्थात् कारकादिष्टानिष्टे प्रशस् / 7 / 2 150 / कारकवाचिभ्यां बह्वल्पाभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये पित् शस् वा भवति / बहु अतिथिभ्यो ददाति बहुशो ददाति धनम् / अल्पं ददाति अल्पशो ददाति धनं चण्डालाय / ग्रामे बहु बहुशो ददाति / श्राद्धे अल्पमल्पशो ददाति / संख्यैकार्थाद्वीप्सायां शस्। 7 / 2 / 151 / / संख्यावाचिन एकत्वविशिष्टार्थवाचिनश्च कारकार्थाद् द्वीप्सायां शस् वा भवति / एकैकं ददाति एकशो ददाति / द्वौ द्वौ ददाति द्विशो ददाति / त्रिशो ददाति।माषं माषं ददाति माषशो ददाति / संख्यैकार्थादिति किम्-माषौ माषौ दत्ते / . वर्णाव्ययात् स्वरूपे कारः / 7 / 2 / 156 /