________________ (233) 'अरूकरोति -- दीर्घश्वियङ्यक्येषु च ' इति दीर्घः / अरूस्यात् , अरूभवति / एवमुन्मनीभवति, स्यात , करोति / चक्षस्यात. चेतीभवति, रहीस्यात् , रजीस्यात् / 'इसुसन्तस्य च्वौ बहुल लुग् वाच्यः' सीकरोति, सीभवति, सीस्यात् / धनूकरोति, धनूभवति, धनूस्यात् / क्वचिच्च न भवति-सर्पिर्भवति इत्यादिः / व्यअनस्यान्त ईः / 7 / 2 / 129 / व्यञ्जनान्तस्य च्वौ परे बहुलमीकारोऽन्तो भवति / दृषदीमवति / व्याप्तौ स्सात् / 7 / 2 / 130 / चिविषये सादिः सात् प्रत्ययो भवति ।अभूततद्भावस्य चेत् सर्वात्मना द्रव्येण सह सम्बन्धो गम्येत / सर्व काष्ठमनग्निमग्निं करोति अग्निसात् करोति काष्ठम् / एवग्निसाद् भवति, अग्निसात स्यात् सर्व काष्ठमनग्निरग्निर्भवति, स्याद् वेत्यर्थः / तत्राधीने / 7 / 2 / 132 / सप्तम्यन्तादधीनेऽर्थे कृभ्वस्तिसंपद्योगे स्सात् प्रत्ययो भवति / राज्ञि आयतं राजसात् करोति, राजसाद् भवति, राजसात् स्यात् , राजसात् संपद्यते / 'देये त्रा च ' राज्ञि अधीनं देयं करोति रानत्रा करोति, देवत्रा करोति / / तीयशम्बबीजात् कृगा कृषौ डाच् / 7 / 2 / 135 /