________________ (232) आभ्यां पूर्वोक्ताभ्यां स्वार्थे आत् भवति, चकाराद् दक्षिणोत्तराभ्यां च / अपरस्य पश्चादेशः / अधरात्, पश्चात् , दक्षिणात्, उत्तरात् / आही दूरे / 7 / 2 / 120 / दूरदिग्देशार्थात् प्रथमासप्तम्यन्ताद् दक्षिणादा आहिश्च भवति / दक्षिणा, दक्षिणाहि रम्यं वासो वा / ' उत्तराद् वा वाच्यौ' उत्तरा, उत्तराहि पक्षे उत्तरतः उत्तराद् रम्यं वासो वा / - अदूरे एनः / 7 / 2 / 122 / . अवधेरदूरे वर्तमानाद् दिगाद्यर्थे वर्तमानाच्च प्रथमासप्तम्यन्ताद् दिक्शब्दाद् एनो भवति / पूर्वेणास्य रमणीयम् / कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे चिः।७।२।१२६। -- कर्मार्थात् करोतिना योगे कर्थाच्च वस्तिभ्यां योगेऽभूततद्भावे गम्यमाने च्विः प्रत्ययो भवति / अशुक्लं शुक्लं करोति शुक्लीकरोति पटम् / अशुक्लः शुक्लो भवति शुक्लीभवति पटः / शुक्ली• स्याद् वस्त्रम् / ईश्वाववर्णस्यानव्ययस्य / 4 / 3 / 111 / अव्ययवर्जितस्यावर्णान्तस्य च्वौ परे ईर्भवति / मालीस्यात् / अर्मनश्चक्षुश्चेतोरहोरजसा लुक् चौ / 7 / 2 / 127 / एषां चौ परेऽन्तस्य लुगू भवति / अनरुः अरुः करोति