________________ ( 227) किमद्वयादिसर्वाद्यषैपुल्यबहोः पित् तस् / 7 / 2 / 89 / ... किंशब्दाद द्वयादिवर्जितेभ्यः सर्वादिभ्योऽवैपुल्यार्थाद् बहोश्च पन्चम्यन्तात् तस् , स च पिद् भवति / कस्मादिति कुतः / सर्वस्मात् सर्वतः / विश्वतः / बहुभ्यो बहुतः / इतोऽत:कुतः / 7 / 2 / 90 / ____एते तस्प्रत्ययान्ता निपातनीयाः / अस्मादिति इदंशब्दस्य * आदेशे इतः / एतस्मादिति एतच्छब्दस्य अकारादेशे अतः / कस्मादिति किंशब्दस्य 'कु' आदेशे कुतः / . भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थाद् / 7 / 2191 / भवतु आयुष्मद् दीर्घायुस् देवानांप्रिय इत्येतैः सह समानाधिकरणेम्यः किमद्वयादिसर्वाद्यवैपुल्यबहुभ्यः सर्वस्याद्यन्तेभ्यः पित् तस् वा भवति / स भवान् , ततो भवान्। वे भवन्तः, ततो भवतः / स आयुप्मान्, तत आयुष्मान् / तमायुष्मन्तम्, तत आयुष्मन्तम् / तेनायुष्मता, तत आयुष्मता / तस्मै आयुष्मते, तत आयुष्मते / तस्मादायुष्मतः, तत आयुष्मतः / तस्यायुष्मतः, तत आयुष्मतः / तस्मिन्नायुप्मति, तत आयुष्मति / स दीर्घायुः, ततो दीर्घायुः / स देवानांप्रियः, ततो देवानां प्रिय इत्यादिः / एवमेभ्यस्त्रप्प्रत्ययोऽपि वा बोध्यः' स भवान् , तत्र मवान् / तं भवन्तम् , तत्र भवन्तम् / स आयुष्मान , तत्रायुष्मान् / स दीर्घायुः, तत्र दीर्घायुः / स देवानांप्रियः, तत्र देवानांप्रिय इत्यादिः /