________________ (226) भूतो भूतपूर्वः, भूतपूर्व आढ्य आढ्यचरः / पकारः पुंवद्भावार्थः भूतपूर्वा आढ्या आढ्यचरी / षष्ठया रूप्यचरट् / 7 / 2 / 80 / षष्ठयन्ताद् भूतपूर्वेऽर्थे एतौ भवतः। जिनदत्तस्य भूतपूर्वः जिनदत्तरूप्यः, जिनदत्तचरः। व्याश्रये तसुः / 7 / 2 / 81 / षष्ठ्यन्ताद् व्याश्रये गम्ये तसुर्भवति / नानापक्षाश्रयो व्याश्रयः। विद्वांसो धर्मसूरितोऽभवन् देवद्रव्यचर्चायां-धर्मसरिपक्षावलम्बिनो विद्वांस इत्यर्थः / रोगात् प्रतीकारे / 7 / 2 / 82 / षष्ठयन्ताद्रोगार्थात् प्रतीकारेऽर्थे तसुः प्रत्ययो भवति / प्रवाहिकाया अपनयनं प्रवाहिकातः कुरु / एवं प्रच्छर्दिकातः कुरु- रोगस्य चिकित्सां कुर्वित्यर्थः / पयभेः सर्वोभये / 7 / 2 / 83 / सर्वोभयार्थे यथासंख्यमाभ्यां तसुर्भवति / परितः सर्वत इत्यर्थः / अभितः उभयत इत्यर्थः / * आधादिभ्यः / 7 / 2 / 84 / संभवद्विभक्त्यन्तेभ्य आधादिभ्यस्तसुर्भवति / आदौ आदेः आदये आदिना वेति आदितः / एवं मध्यतः, अन्ततः, अग्रतः, पार्धतः, पृष्ठतः, मुखतः।