________________ (225) शेऽर्थे मत्वर्थेऽतो.मिन् भवति, प्रकृतेश्च दीर्घः। स्वमस्त्यस्येति स्वामी, अन्यस्तु स्ववान् / 'गोः' गोमी, गोमान् / गुणादिभ्यो यः / 7 / 2 / 53 / गुणादिशब्देभ्यो मत्वर्थे यो भवति / गुणाः सन्त्यस्य गुण्यः, गुणवान् / हिम्यः, हिमवान् पर्वतः / इनः पक्षे मतुर्न भवति / 'पूर्णमासोऽण् पूर्णमासोऽस्यामस्तीति पौर्णपासी / नात्र पक्षे मतुः / 'मालाशब्दात् क्षेपे इन् वाच्यः' माली, क्षेपाभावे मालावान् / __वर्णाद् ब्रह्मचारिणि / 7 / 2 / 69 / / वर्गशब्दाद् मत्वर्थे इन् भवति, ब्रह्मचारिणि अभिधेये / वर्णो ब्रह्मचर्यमस्यास्तीति वर्णी ब्रह्मचारी। इति मत्वर्थाधिकारः। प्रकारे जातीयर। 7 / 2 / 75 / प्रथमान्तात् षष्ठ्यर्थे जातीयर् भवति, यत् प्रथमान्तं तच्चेत् प्रकारो भवेत् / पटुः प्रकारोऽस्य पटुजातीयः। एवं मृदुजातीयः / नानाजातीयः / कोऽण्वादेः / 7 / 2 / 76 / एम्यः प्रथमान्तेभ्यः षष्ठ्यर्थे को भवति, प्रथमान्तं चेत् प्रकारः / अणुः प्रकारोऽस्य अणुकः, स्थूलकः / भूतपूर्व चरट् / 7 / 3 / 78 / भूतपूर्वार्थे वर्तमानात् स्वार्थे चाट् भवति, स च पित् / पूर्व 15