________________ (224 ) -- अङ्ग इत्यादिभ्यो मत्वर्थे नो भवति / अङ्गना / पामनः / वामनः / प्रज्ञाश्रद्धा_वत्तेर्णः / 7 / 2 / 33 / एभ्यो मत्वर्थे णो भवति / प्रज्ञाऽस्त्यस्य प्राज्ञः, प्रज्ञावान् / श्राद्धः, श्रद्धावान् / आर्चः, अर्चावान् / वार्तः, वृत्तिमान् / 'उन्नतोपाधिकाद् दन्ताद् डुरो,वाच्यः' उन्नता दन्ताः सन्त्यस्य दन्तुरः। मेधारथाद् नवरः / 7 / 2 / 41 / आभ्यां मत्वर्थे इरो वा भवति / मेधिरः, मेधावान् , मेधावी / रथिरः, रथिकः, रथी, रथवान्। 'कृपाहृदयाभ्यामालुर्वाच्यः कृपालुः, कृपावान् / हृदयालुः, हृदयवान् , हृदयिकः, हृदयी / ' केशाद् मत्वथ वो वा वाच्यः / केशाः सन्त्यस्य केशवः, केशी, केशवान् , केशिकः / अस्तपोमायामेधास्रजो विन् / 7 / 2 : 47 / असन्तेभ्यः तपसादेश्च मत्वर्थे विन् भवति / तेजस्वी, यशस्वी, तपस्वी, मायावी, मेधावी, स्रग्वी, तेजस्वान् इत्यादिः / आमयाद् दीर्घश्च / 7 / 2 / 48 / अतो मत्वर्थे विन् भवति, तद्योगे दीर्घश्च / आमयावी, आमयवान् / स्वाद् मित्रीशे / 7 / 2 / 49 /