________________ ( 223) एभ्यो मत्वर्थे लइलौ भवतः / प्रज्ञालः, प्रज्ञिलः, प्रज्ञावान् / पर्णलः: पर्णिलः, पर्णवान्। उदकलः, उदकिलः, उदकवान्। फैनलः, फेनिलः, फेनवान् / वाच आलाटौ / 7 / 2 / 24 / क्षेपे गम्ये मत्वर्थे वाक्शब्दादेतौ भवतः / वाचालः, 'वाचाटः। ग्मिन् / 7 / 2 / 25 / वाक्छब्दाद् मत्वर्थे ग्मिन् भवति / वाग्मी, वाग्वान् / मध्वादिभ्यो र / 7 / 2 / 26 / एभ्यो मत्वर्थे रः प्रत्ययो भवति / मधुरः स्वरः / महत् खं कण्ठोऽस्त्यस्य खरः / मुखरः। कृष्यादिभ्यो बलन् / 7 / 2 / 27 / एभ्यो मत्वर्थे बलच् भवति / कृषीबलः कुटुम्बी / आसुती.. बलः / कल्पपालः। लोमपिच्छादेः शेलम् / 7 / 2 / 28 / लोमादिभ्यः पिच्छादिभ्यश्च यथासंख्यं मत्वर्थे श इलश्व भवति / लोमानि सन्त्यस्येति लोमशः, लोमवान् / एवं गिरिशः, गिरिमान् / पिच्छिलः, पिच्छवान् / उरसिलः, उरस्वान् / / मोऽङ्गादेः / 7 / 2 / 29 /