________________ ( 222) ऊर्णाऽहंशुभमो युस् / 7 / 2 / 17 / एभ्यो मत्वर्थे युस् भवति / ऊर्णाऽस्यास्तीति ऊर्णायुः, एवमहंयुः, शुभंयुः। कंशंभ्यां युस्तियस्तुतवभम् / 7 / 2 / 18 / . आभ्यां मत्वर्थे युस्.ति यस् तु त व भ इत्येते प्रत्यया भवन्ति / कंयुः, कंतिः, केयः, कंतुः, कंव:, कंभः / शंयुः, शंतिः, शंयः, शन्तुः, शन्तः, शंवः, शंभः / / प्राण्यङ्गादातो लः / 7 / 2 / 20 / आकारान्तात् प्राण्यङ्गवाचिनो मत्वर्थे लो भवति / चूडाऽस्त्यस्येति चूंडालः, चूडावान् / शिखालः, शिखावान् / बलवातदन्तललाटादूलः / 7 / 3 / 19 / एभ्यो मत्वर्थे उलो भवति / बलमस्यास्तीति बलूलः, बलवान् , वातूलः, वातवान् / दन्तूलः, दन्तवान् / ललाटूलः, ललाटवान् / सिध्मादिक्षुद्रजन्तुरुग्भ्यः / 7 / 2 / 21 / सिध्मादिगणात् क्षुद्रनन्तुवाचिभ्यो रुगच्च मत्वर्थे लो भवति / सिध्मानि सन्त्यस्य सिध्मलः, सिध्ममान् / क्षुद्रजन्तुःयकालः, यूकावान् / रुक्-मूर्छाल, मूर्छावान् / प्रज्ञापोदकफेनाल् लेलौ / 7 / 2 / 22 /