________________ (221) अतोऽनेकस्वरात् / 7 / 2 / 6 / अकारान्तादनेकस्वराद् मत्वर्थे इनिको भवतः / दण्डिकः, दण्डी, दण्डवान्। एवं छत्री, छत्रिकः, छत्रवान् / व्रीह्यर्थतुन्दादेरिलश्च / 7 / 2 / 9 / व्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वर्थे इल इकेनौ च भवतः / शालिलः, शालिकः, शाली, शालिमान् / तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान् / 'विवृद्धोपाधिकात् स्वाङ्गात् मत्वर्थे पूर्वोक्ताः प्रत्यया वाच्याः' महान्तौ कणा स्तोऽस्य कर्णिलः, कर्णिकः, कर्णी, कर्णवान् / एवमोष्ठिलः, ओष्ठिकः, ओष्ठी, ओष्ठवान् / 'वृन्दशब्दादारको वाच्यः' वृन्दारकः, वृन्दवान् / फलबर्हाच्चेनः / 7 / 2 / 13 / . . . आभ्यां शृङ्गाच्च मत्वर्थे इनो भवति / फलानि सन्त्यस्य फलिनः, फलवान् / बहिणः, ब्रर्हवान् / शृङ्गिणः, शृङ्गवान्, शृङ्गात्तु आरकोऽपि शृङ्गारकः / मरुत्पर्वणस्तः / 7 / 2 / 15 / मरुत्पर्वभ्यां मत्वर्थे तः प्रत्ययो भवति / मरुत्तः, मरुत्वान् / पर्वतः, पर्ववान् / वलिवटितुण्डेर्भः / 7 / 2 / 16 / - मत्वर्थे एभ्यो भो भवति / वलिमः, वटिमः, तुण्डिभः / वलिमान, वटिमान् , तुण्डिमान् /