________________ ( 228) क्वकुत्रात्रेह / 7 / 2 / 93 / क कुत्र अत्र इह इत्येते शब्दाः त्रचन्ता निपात्यन्ते / कस्मिनिति क, कुत्र / एतस्मिन्निति अत्र / अस्मिन्निति इह / सप्तम्याः / 7 / 2 / 94 / / ___सप्तम्यन्तेभ्यः कि द्वयादिसर्वाद्यवैपुल्यवहुभ्यः त्रब् भवति / कस्मिन्निति कुत्र / सर्वस्मिन्निति सर्वत्र / तस्मिन्निति तत्र / बहुषु इति बहुत्र / किंयत्तत्सर्वैकान्यात् काले दा / 7 / 2 / 95 / एभ्यः सप्तम्यन्तेभ्यः कालेऽभिधेये दाप्रययो भाति / करिमन् काले कदा, एवं यदा, तदा, सर्वदा, एकदा, अन्यदा। सदाऽधुनेदानींतदानीमेतहि / 7 / 2 / 96 / काले वाच्ये एते नित्यन्ते / सर्वस्मिन् काले सदा। अस्मिन् कालेऽधुना, इदानीम् / तस्मिन् काले तदानीम् / एतस्मिन् काले एतहि / सद्योऽद्यपरद्यव्यह्नि / 7 / 2 / 97 / एते काले निपात्यन्ते / समानेऽह्नि सद्यः / अस्मिन्नह्निः अद्य / परस्मिन्नहि परेद्यति / पूर्वापराघरोत्तरान्यान्यतरेतरादेबुस् / 7 / 2 98 / एभ्यः सप्तम्भन्तेभ्योऽहि कालेऽर्थे एद्युम् भवति / पूर्वस्मि-.