________________ (218) . . इन्द्रियम् / 7 / 1 / 174 / इन्द्रशब्दादियो निपात्यते / इन्द्रस्य लिङ्गमिन्द्रियम् / तेन वित्ते चञ्चुचणौ / 7 / 1 / 175 / तृतीयान्ताद् वित्तेऽर्थे चञ्चुचणौ भवतः / विद्यया वित्तः विद्याचन्चुः, विद्याचणः। . पूरणाद् ग्रन्थस्य ग्राहक को लुक् चास्य / 7 / 1 / 176 / पूरणप्रत्ययान्तात् तृतीयान्ताद् ग्रन्यस्य ग्राहकेऽर्थे को भवति। तद्योगे च पूरणप्रत्ययस्य लुक् / द्वितीयेन रूपेण ग्रन्थस्य ग्राहकः द्विकः शिष्यः। सोऽस्य मुख्यः / 7 / 1 / 190 / प्रथमान्तात् षष्ठ्यर्थे को भवति / प्रथमान्तं चेद् मुख्यं. भवेत् / रत्नलालो मुख्योऽस्य स रस्नलालकः तीर्थप्रवासः / उन्मनस्यर्थे उत्कः, उत्सुकः / साक्षाद् द्रष्टा साक्षी। . तदस्यास्त्यस्मिन्निति मतुः / 7 / 2 / 1 / तदिति प्रथमान्तादस्येति षष्ठयथऽस्मिन्निति सप्तम्यर्थे वा मतुः प्रत्ययो भवति / यत् प्रथमान्तं तच्चेदस्तीति / गावोऽस्य सन्तीति गोमान् जिनदत्तः, वृक्षा अस्मिन् सन्तीति वृक्षवान्, पर्वतः, एवं धनवान् , प्लक्षवान् / अस्तीति वतमानकालोपादानेन