________________ (217) अत्वन्तात् संख्यापूरणे इथट् प्रत्ययो भवति, स च पित्। इयतां पूरणः इयतियः, तावतिथी, यावतिथः / षट्कतिकतिपयात् थट् / 7 / 1 / 162 / एभ्यः संख्यापूरणे थड भवति / षण्णां करणी षष्ठी, एवं कतिथः, कतिपयथः / - चतुरः / 7 / 1 / 163 / __अतः संख्यापूरणे थड् भवति / चतुर्णा पूरकः चतुर्थः / चतुर्थी तिथिः / येयौ चलुक् च / 7 / 1 / 164 / चतुरः संख्यापूरणे येयो भवतः, तद्योगे चस्य लुक् / चतुर्णा 'पूरणः तुर्यः, तुरीयः। वस्तीयः / 7 / 1 / 165 / द्विशब्दात् संख्यापूरणे तीयो भवति / द्वयोः पूरकः द्वितीयः। स्तु च / 7 / 1 / 166 / त्रिशब्दात् पूरणेऽर्थे तीयो भवति, तद्योगे च त्रेस्तृरादेशः / त्रयाणां पूरकः तृतीयः / पूर्वमनेन सादेश्चन् / 7 / 1 / 167 / पूर्वमित्यमन्तात् केवलात् सपूर्वाचानेनेति टार्थे कर्तरीन् भवति / कृतः पूर्वमनेनेति कृतपूर्वी कटम् , भुक्तं पूर्वमननति मुक्तपूर्षी धनम् / पीत पूर्वी पयः /