SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ( 216) _____संख्यावाचिनः संख्या पूर्यते येनेत्यर्थे डट् प्रत्ययो भवति / एकादशानां पूरणः एकादशः, एवं द्वादशः / द्वादशी, त्रयोदशी, चतुर्दशी / विंशत्यादेर्वा तमट् / 7 / 1 / 156 / - संख्यावाचिनो विंशत्यादेः संख्यापूरणे तमड् भवति वा / विशतेः पूरणः विंशः, विंशतितमः / त्रिंशत्तमः, त्रिंशः। एकविंशतितमः, एकविंशः / षष्टयादेरसङ्ख्यादेः / 7 / 1 / 158 / नास्ति संख्यावाची आदिरवयवो यस्य तस्मात् षष्टयादेः संख्यापूरणे तमड् भवति / षष्टेः पूरणः षष्टितमः / सप्ततेः पूरणः सप्ततितमः / असंख्यादेरिति किम्-एकषष्टः / नो मट् / 7 / 1 / 159 / असंख्यादेर्नान्तसंख्यायाः संख्यापूरणे मड् भवति / पञ्चानां पूरकः पञ्चमः / एवं सप्तमः, अष्टमः, नवमः, दशमः / असंख्यादेरित्येव-द्वादशः। : पित् तिथद् बहुगणपूगसङ्घात् / 7 / 1 / 160 / - बहुगणपूगसंघेभ्यः पूरणेऽर्थे तिथट् प्रत्ययो भवति स च पित् / बढूनां पूरकः बहुतिथः, एवं गणतिथः, प्रगतिथः, सङ्घतिथः। अतोरिथट् / 7 / 1 / 161 /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy