________________ ( 215) प्रथमान्ताद मानवाचिनः षष्ठ्यर्थे मात्रट भवति संशयेऽर्थे / प्रस्थमात्रं स्यात् / इदंकिमोऽतुरियकिय चास्य / 7 / 1 / 148 / मानार्थे वर्तमानाभ्यामाभ्यां षष्ठ्यर्थे मेयेऽतुर्भवति / तद्योगे चानयोर्यथासंख्यमियकियौ / इदं मानमस्य इयान्, किं मानमस्य कियान् पटः / यत्तदेतदो डावादिः / 7 / 1 / 149 / मानवृत्तिभ्यः प्रथमान्तेभ्य एभ्यः षष्ठयर्थेऽतुप्रत्ययो भवति, स च डावादिः / यत् तद् एतत् प्रमाणमस्य स यावान् , तावान् , एतावान् / यत्तत्किमः संख्याया डतिर्वा / 7 / 1 / 150 / संख्यारूपमानार्थवृत्तिभ्यः प्रथमान्तेभ्यो यत् तत् किम् इत्येतेभ्यः षष्ठ्यर्थे उतिर्वा भवति / या सा का संख्या मानमेषां यति तति का , पक्षे यावन्तः तावन्तः कियन्तः / . अवयवात् तयट् / 7 / 1 / 151 / अवयववाचिनः संख्यार्थात् स्यन्तात् षष्ठयर्थे त ड भाति / चत्वारोऽवयवा अस्याः सा चतुष्टयी, एवं पञ्चतयी / ' द्वित्रिम्यामयड् वा ' द्वाववयवावस्य तद् द्वयं, द्वितयम् / त्रयोऽवयवाः अस्य त्रयं, त्रितयम् / . संख्यापूरणे डट् / 7 / 1 / 155 /