________________ (219) भूतभविष्यतोर्न भवति / गावोऽस्याऽऽरन् भविष्यन्ति वेति वाक्या मेव / इतिकरणाद् विषयनियमः भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिनि / संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः // 1 // भूम्नि गोमान् , निन्दायां कुष्ठी, प्रशंसायां रूपवती कन्या, नित्ययोगे क्षीरिणो वृक्षाः, अतिशायिनि उदरिणी स्त्री, संसर्गे दण्डी / भूमादिविषयनियमोऽपि प्रायिकः तेन व्याघ्रवान् पर्वत इत्यादौ सत्तामात्रेऽपि / मत्वर्थान्ताद् मत्वर्थीयप्रत्ययो न भवति तथा चाहुः.. शैषिकाच्छैषिको नेष्टः स्वरूपः प्रत्ययः क्वचित् / / समानवृत्तौ मत्वर्थाद मत्वर्थीयोऽपि नेप्यते // 1 // विरूपप्रत्ययस्तु भवत्येव दण्डिमती शाला / विरूपप्रत्ययोऽपि समानवृत्तौ न भवति-दण्डोऽस्त्यस्य दण्डिकः स सोऽस्ति अस्येति इन्मतू न स्याताम् / असन्जाभूतात् कर्मधारयात् मत्वर्थीयो न भवति / वीराश्च ते पुरुषाश्च वीरपुरुषास्ते सन्ति यस्मिन् ग्रामे / 'गुणे गुणिनि चार्थे ये शब्दा वर्तन्ते तेभ्योऽपि मत्वर्थीयो न भवति ' शुक्लो वर्णोऽस्यास्तीति प्रत्ययमन्तरेण तेषाममिघाने सामर्थ्यदर्शनाद् , गुणमात्रवृत्तिभ्यस्तु भवत्येव रूपवती सीता। मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः / 2 / 1 / 94 / मश्चावर्णश्चेति मावो तो प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मतोर्मों वो भवति / किमस्या