________________ // अहम् // नमो नमः श्रीप्रभुधर्मसूरये * धर्मदीपिका। नत्वा वीरं जगद्वन्धं धर्ममूरि गुरुं तथा / सिद्धहेमप्रवेशाय क्रियते धर्मदीपिका // 1 // अहं / 1 / 1 / 1 / 'अहं' इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं शास्त्रस्यादौ प्रणिधेयम् / सिद्धिः स्याद्वादात् / 1 / 1 / 2 / कथंचित् सर्वदर्शनसंमतसद्भतनित्यानित्यादिवस्त्वंशानां मिथः सापेक्षतया वदनं स्याद्वादः / अथवा नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगमः स्याद्वादः / तस्मात् प्रकृतानां शब्दानां सिद्धिनिष्पत्तिर्जातव्या / औदन्ताः स्वराः / 1 / 1 / 4 / अकाराद्या औकारान्ता वर्णाः स्वरसंज्ञकाः स्युः / ते च अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ /