________________ (213) क्लिन्नालश्चक्षुषि चिपिल्चुल चास्य / 7 / 1 / 1301 क्लिन्नशब्दाच्चक्षुष्यर्थे लो भवति / तत्सन्नियोगे च क्लिन्नशब्दस्य चिल् पिल चुल् इत्येते आदेशा भवन्ति / चिल्लम् , पिल्लम्, चुल्लं चक्षुः। . अवेः संघातविस्तारे कटपटम् / 7 / 1 / 132 / ___अतः षष्ठयन्तात् संघाते विस्तारे चार्थे यथासंख्यं कटपटौ मातः / अवीनां संघातोऽविकटः / अवीनां विस्तारोऽविपटः / 'उपत्यकाधित्यके निपात्यौ' उपत्यका पर्वतासन्ना भूः, अधित्यका पर्वताधिरूढा भूः / ___पशुभ्यः स्थाने गोष्ठः / 7 / 1 / 133 / पशुवाचिभ्यः षष्ठ्यन्तेभ्यः स्थानेऽर्थे गोष्ठो भवति / अश्वानां स्थानमश्वगोष्ठम् / महिषीगोष्ठम् / . तिलादिभ्यः स्नहे तैलः / 7 / 1 / 136 / : षष्ठ्यन्तेभ्यस्तिलादिभ्यः स्नेहेऽर्थे तैलो भवति / तिलानां स्नेहः तिलतैलम्, सर्षपतैलम्, एरण्डतैलम् / 'कणि घटते इत्यय कर्मठः / / - तदस्य संजातं तारकादिभ्य इतः / 7 / 1 / 138 / प्रथमान्तेभ्यस्तारकादिभ्यः षष्ठ्यर्थे इतः प्रत्ययो भवति / तारका- संजाता अस्येति तारकितं नमः / पुष्पाणि संजातान्यस्य पुष्पितस्तरुः /