________________ ( 212) संप्रोनेः संकीर्णप्रकाशाधिकसमीपे / 7 / 1 / 125 / ___ समः संकीर्णेऽर्थे, प्रात् प्रकाशेऽर्थे, उतोऽधिके, ने: समीपे च कटो भवति / संकटः संकीर्णः, प्रकटः प्रकाशः, उत्कटोऽधिकः, निकटः समीप इत्यर्थः / ___ अवात् कुटारश्चावनते / 7 / 1 / 126 / अवशब्दादवनतेऽर्थे कुटारकटौ भवतः। अवनत इति अवकुटारः, अवकटः। नासानतितद्वतोष्टीटनाटभ्रटम् / 7 / 1 / 127 / अवाद् नासानतौ तद्वति चार्थे टीटनाटभ्रटा भवन्ति / नासाया नमनम्-अवटीटम् , अवनाटम् , अवभ्रटम् ; तद्योगाद नासिका, पुरुषोऽपि तथोच्यते-अवटीटा, अवनाटा, अवभ्रटा नासिका / अबटीटः, अवनाटः, अवभ्रटः पुरुषः / ' नेरिनपिटकाश्चिकचिचिकश्चास्य / 7 / 1 / 128 / निशब्दाद् नासानतौ तद्वति चार्थे इन पिट क इत्येते प्रत्यया भवन्ति / तयोगे च नेर्यथासंख्यं चिक चि चिक इत्येते आदेशा भवन्ति / चिकिनम् , चिपिटम् , चिकं नासानमनम् / चिकिना चिपिटा, चिक्का नासिका / चिकिनः, चिपिटः, चिक्कः पुरुषः / 'निशब्दाद् नीरन्धेऽर्थे। नासानतितद्वतोश्वार्थे विडविरीसौ प्रत्ययो वाच्यौ' निविडाः, निविरीसा: केशाः / निविडम् , निविरीसम् नासिकानमनम् , निविडा निविरीसा नासिका, निविडः निविरीसो नरः अवनतनासिकावानित्यर्थः /