________________ (211) अलाब्बाश्च कटो रजसि / 7 / 1 / 84 / अलावूशब्दात् चकारादुमाभङ्गातिलेभ्यश्च तस्य. रजस्यर्थे कटो भवति / अलावूनां रजः अलाबूकटम् , एवमुमाकटम् , भङ्माकटम् , तिलकटम् / .. पील्यादेः कुणः पाके / 7 / 1 / 87 / षष्ठयन्तेभ्यः पीत्वादिभ्यः पाकेऽर्थे कुणो भवति / पीलूनां पाकः पीलुकुणः, एवं शमीकुणः, कर्कन्धूकुणः / कर्णादेर्मूले जाहः / 7 / 1 / 88 / . षष्ठयन्तेभ्यः कर्णादिभ्यस्तस्य मूलेऽर्थे आहःप्रत्ययो भवति / कणयोर्मूलं कर्णनाहम् , एवमक्षिनाहम् / 'कुलशब्दाज्जरपेऽर्थे ईनन् वाच्यः' कुलस्य जल्पः कोलीनः / 'पक्षशब्दात् मूलेऽर्थे तिर्वाच्यः' पक्षस्य मूलं पक्षतिः / / हिमादेलुः सहे / 7 / 1 / 90 / .....अतस्तस्य सहेऽर्थे एलुर्भवति / हिमं सहमानो हिमेलुः / शीतोष्णतृषादालुरसहे / 7 / 1 / 92 / / : एभ्यस्तस्यासहमानेऽर्थे आलुभवति / शीतस्यासहः शीतालुः, एवमुष्णालुः, तृषालुः / . वेविस्तृते शालशङ्कटौ / 7 / 1 / 123 / अतो. विस्तृतेऽर्थे शालशङ्कटौ भवतः / विस्तृतः विशाला, विशा.टः / कटोऽपि विकटः /