________________ (210) चाण भवति / शुचेर्भावः कर्म वा शौचम्, शुचित्वम् , शुचिता / पटो(वः कर्म वा पाटवम्, पटुत्वम्, पटुतां / बन्धोर्भावो वा कर्म बान्धः म् , बन्धुत्वम् , बन्धुता / पितुर्भावः कर्म वा पैत्रम्, पितृस्वम् , पिता। योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकम् / 7 / 1 / 72 / ___ यादीनामन्त्यमुत्तमम् , तत्समीपमुपोत्तमम् , तद् गुरु यस्य तस्माद् युपान्त्यात् सुप्रख्यवर्नात् तस्य भावे कर्मणि चाकञ् भवति / रमणीयस्य भावः कर्म वा रामणीयकम् , रमणीयत्वम्, रमणीयता / एवम् आचार्यकम् , आचार्यत्वम् , आचार्यता। . शाकटशाकिनौ क्षेत्रे / 7 / 1 / 78 / षष्ठयन्तात् क्षेत्रेऽर्थे एतौ भवतः / इक्षूणां क्षेत्रम् इक्षुशाकटम्, इक्षुशाकिनम् , शाकस्य क्षेत्रं शाकशाकटम् , शाकशाकिनम् / 'धान्यवाचिभ्यः षष्ठयन्तेभ्यस्तु क्षेत्रे ईनञ् वाच्यः' मुद्गानां क्षेत्रं मौद्गीनम् , एवं कौलत्थीनम् , कौद्रवीणम् / 'व्रीहिशालिभ्यामेयण ' व्रीहीणां क्षेत्रं त्रैहेयम्, शालीनां क्षेत्रं शालेयम् / यवयवकषष्टिकाद् यः।७।१।८१। एभ्यस्तस्य क्षेत्रेऽर्थे यो भवति / यवानां क्षेत्रं यव्यम्, एवं यवक्यम् , षष्टिक्यम् / वाऽणुमाषात् / अणूनां क्षेत्रमाणवीनम्, अणव्यम्, माषाणां क्षेत्रं माष्यम्, माषीणम्, यो वा भवनात् पक्षे ईनन् /