________________ (209) लुक् च / भूमा / पक्षे सर्वत्र त्वतलौ / 'वर्णदृढादिभ्यष्टयण वा' शुक्लस्य भावः शौक्ल्यम् , शुक्लिमा, शुक्लत्वम् , शुक्लता। शितेर्भावः शैत्यम् , शितिमा, शितित्वम् , शितिता, शैतम् / दृढस्य भावः दायम्, द्रढिमा, दृढत्वम् , दृढता / पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च / 7 / 1 / 60 / पत्यन्ताद् राजान्ताद् गुणोऽङ्ग प्रवृत्तौ हेतुर्येषां तेभ्यो राजादेश्च भावे क्रियायां च ट्यण भवति / अधिपतेर्भावः कर्म वा आधिपत्यम् , अधिपतित्वम् , अधिपतिता / एवमाधिराज्यम्, अधिराजत्वम् , अधिराजता / मौढ्यम् , मूढत्वम्, मूढता / राज्यम् , राजत्वम् , राजता / काव्यम्, कवित्वम् , कविता। अर्हतस्तो न्त् च। 7 / 1 / 61 / अतस्तस्य भावे कर्मणि च ट्यण भवति / तद्योगे तस्य न्तादेशः / अर्हतो भाव आर्हन्त्यम्, अर्हत्त्वम्, अर्हत्ता / ' सहायशब्दात्तु वा ट्यण् बोध्यः ' साहाय्यम्, साहायकम् , सहायत्वम्, सहायता। युवादेरण् / 7 / 1 / 67 / एभ्यो भावे कर्मणि चाण् भवति / यूनो भावः यौवनम्, युवत्वम् , युवता। ववर्णाल्लघ्वादेः।७।१।६९ / समीपे येषाम् इउऋवर्णानां तदन्तेभ्यस्तस्य मावे कर्मणि 14