________________ पञ्चसर्वविश्वाजनात् कर्मधारये / 7 / 1 / 41 / . पन्चादिपराज्जनात् कर्मधारयवृत्तेस्तस्मै हितेऽर्थे ईनो भवति / सर्वे च ते जनाश्च सर्वजनाः, तेभ्यो हितं सर्वननीनम् / एवं 'पन्चजनीनम् / विश्वजनीनम् / 'महत्सर्वादिकण / महांश्चासौ जनश्च महाजनः, तस्मै हितं माहाजनिकम्, एवं सार्वजनिकम् / 'सर्वशब्दात् तस्मै हितेऽर्थे जो वा. वाच्यः' सर्वस्मै हितः सार्वः, सर्वीयो वा। परिणामिनि तदर्थे / 7 / 1 / 44 / चतुथ्यन्ताच्चतुर्थ्यर्थे परिणामिनि यथाधिकृतं प्रत्ययो भवति / -अङ्गाराय परिणमति आङ्गारीयं काष्ठम् / शङ्कव्यं दारु / परिखाऽस्य स्यात् / 7 / 1 / 48 / स्यन्तादतः षष्ठयर्थे परिणामिनि एयण भवति / परिखा आसां स्यात् पारिखेय्य इष्टकाः / ..." -- अत्र च / 7 / 1 / 49 / परिखायाः स्यादिति सम्भाव्यायाः प्रथमान्ताया अत्रेति -सप्तम्यर्थे एयण भवति / परिखा अस्यां स्यात् पारिखेयी भूः। तद् / 7 / 1 / 50 / .. स्यादिति सम्भाव्यात प्रथमान्तात् षष्ठयर्थे परिणामिनि सप्तम्यर्थं च यथाधिकृतं प्रत्यया भवन्ति / प्राकार आसाः स्यात्