________________ (20) द्वितीयान्ताभ्यामाभ्यां लधर्मर्थे यो भवति / धनं लब्धा. धन्यः, एवं गण्यः / न्यायार्थादनपेते / 7 / 1 / 13 / पन्चम्यन्ताभ्यामाभ्यामनपेतेऽर्थे यो भवति / न्यायादनपेत न्याय्यम्, एवमर्थ्यम् / 'मतमदाभ्यां षष्ठयन्ताभ्यां करणे यो वाच्य। मतस्य. मदस्य वा करणं मत्यं मद्यम् / तत्र साधौ / 7 / 1 / 15 / सप्तम्यन्तात् साधावणे यो भवति / सभायां साधुः सभ्यः / ईयः / 7 / 1 / 28 / आ तदो वक्ष्यमाणेष्वर्थेषु ईयोऽधिकृतो वेदितव्यः / . उवर्णयुगादेयः। 7 / 1 / 30 / उवर्णान्ताद् युगाबेश्चातदोऽर्थेषु यो भवति / शङ्कवे हितं काव्यम् / युगाय हितं युग्यम्, हविषे हितं हविष्यम् / तस्मै हिते / 7 / 1 / 35 / / चतुर्थ्यन्ताद् हितेऽर्थे यथाधिकृतं प्रत्ययो भवति / वत्साय हितं वत्सीयम् , युगाय हितं युग्यम् / 'पाद्याध्यौँ तु तदर्थे यान्तौ निपात्यौ / पादार्थ पाद्यमुदकम् , अर्घार्थमयं रत्नम् / .: अव्यजात् थ्य 7 / 1 / 38 / आभ्यां तस्मै हितेऽर्थे थ्यब् भवति / अवये हितमविथ्यम् / मजायै हितमनथ्यम् /