________________ (204) द्वितीयान्ताहत्यर्थे पूर्वोक्ताः प्रत्यया भवन्ति / श्वेतपटमर्हति चैतपटिकः / सहस्रमर्हति साहस्रः / शिक्षामर्हति शैक्षिकः / इकणधिकारः समाः। यः।७।१।१। इत ऊर्ध्वं यदनुक्रमिष्यामस्तत्र ईयप्रत्ययादाग योऽधिकृतो वेदितव्यः / - वहति रथयुगमासङ्गात् / 7 / 1 / / - एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यो भवति / रथं वहति स्थ्यः / युगं वहति युग्यः / प्रासङ्गं वहति प्रासङ्ग्यः / 'धुरो येयण् / धुरं वहति धुर्यः, धौरेयः / - हलसीरादिकण् / 7 / 1 / 6 / ' आभ्यां वहत्यर्थे इकण भवति / हलं वहति हालिकः, एवं सैरिकः / 'शकटशब्दादण वाच्यः शकटं वहति शाकटो गौः। विध्यत्वनन्येन / 7 / 1 / 8 / - द्वितीयान्ताद् विध्यत्यर्थे यो भवति, न चेदात्मनोऽन्येन करणेन विध्येत् / पादौ विध्यति पद्यः कण्टकः / अनन्येनेति किम्-चौरं विध्यति चैत्रः1 . धनगणालब्धरि / 7 / 1 / 9 / /