________________ (203.) ... आभ्यां षष्ठयन्ताभ्यां ज्ञातेऽर्थे यथोक्तं प्रत्ययो भवति / लोकस्य ज्ञातो लौकिकः, सर्वलोकस्य ज्ञातः सार्वलौकिकः / तं पचति द्रोणाद् वाऽब् / 6 / 4 / 161 / द्वितीयान्ताद् द्रोणशब्दात् पचत्यर्थेऽञ् वा भवति / द्रोणं पचति द्रौणी, द्रौणिकी। . सम्भवदवहरतोश्च। 6 / 4 / 162 / . द्वितीयान्ताद् नाम्नः सम्भवति अवहरति पचत्यर्थे चेकणादयो भवन्ति / आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः, अतिरेकेण धारणमवहरः / प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिकः कटारः / खारीकः / कौडविकः। वंशादेर्भाराद् हरद्वहदावहत्सु / 6 / 4 / 166 / वंशादिपराद्ः भारशब्दाद् हरति वहति आवहति चाथै यथाविहितं प्रत्यया भवन्ति / वंशभारं हरति- वहति आवहति वांशभारिकः, एवं कौटभारिकः / / मानम् / 6 / 4 / 169 / .... प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्यया भवन्ति / प्रथमान्तं चेद् मानं भवेत्। प्रस्थः मानमस्य प्रास्थिको राशिः, एवं द्रौणिकः, खारीकः / तमर्हति / 6 / 4 / 177 / /