________________ (202) रिति किम्-द्वाभ्यां सूर्पाभ्यां क्रीतं द्विसूर्पमत्रान इकणो वा लुब् जातः, पुनश्च द्विसूण क्रीतं द्विसौर्षिकमत्र न. लुब् / ... मूल्यैः क्रीते / 6 / 4 / 150 / . मूल्यार्थात् तृतीयान्तात् क्रीतेऽर्थे यथाविहितमिकणादयो भवन्ति / प्रस्थेन क्रीतं प्रास्थिकम्, त्रिंशता क्रीतं त्रिंशकम् / तस्य वापे / 6 / 4 / 151 / . षष्ठयन्ताद् वांपेऽर्थे यथाविहितं प्रत्ययो भवति, वापः क्षेत्रम्। प्रस्थस्य वापः प्रास्थिकं क्षेत्रम् , द्रोणस्य वापः द्रोणिकम् / .. हेतौ संयोगोत्पाते / 6 / 4 / 153 / / . षष्ठ्यन्ताद् हेत्वर्थे यथोक्तमिकणादयो भवन्ति / यो हेतु: स चेत् संयोग उत्पातो वा। संयोगः-सम्बन्धः, उत्पातः शुभाशुभसूचको भूविकारः / शतस्य हेतुः शत्यः शतिको वा राजसंयोगः / सोमग्रहणस्य हेतुरुत्पातः सौमग्रहणिको भूमिकम्पः / 'पुत्राद, येयौ / पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः, पुत्रीयः। वातपित्तश्लेष्मसनिपाताच्छमनकोपने / 6 / 4 / 152 / एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिकण भवति / वातस्य शमनं कोपनं वा वातिकम्, एवं पैत्तिकम्, श्लेष्मिकम्, सान्निपातिकम् / : : लोकसर्वलोकात् ज्ञाते / 6 / 4 / 157 /