________________ (207) प्राकारीया इष्टकाः, परशुरस्य स्यात् परशव्यमयः, प्रासादोस्मिन् स्यात् प्रासादीयो देशः / ईयाधिकारः समाप्तः। तस्याहे क्रियायां वत् / 7 / 1 / 51 / / तस्येति षष्ठयन्तादहेऽर्थे वत् भवति, अहं चेत् क्रिया भवेत् / रांज्ञोऽहं राजवद् वृत्तम् , साधोरर्ह साधुवत् / स्यादेरिवे / 7 / 1 / 52 / स्याद्यन्तादिवार्थे सादृश्ये वत् भवति / तच्चेत् सादृश्य क्रियाविषयं भवति / श्वान इव युध्यन्ते श्ववद् युध्यन्ते, देवमिव देववत् पश्यति मुनिम् / तत्र / 7 / 1 / 53 / सप्तम्यन्तादिवाथै वद् भवति / वाराणस्यामिव वाराणसीवत् प्रयागे प्रासादः / तस्य / 7 / 154 / तस्येति षष्ठ्यन्तादिवाथै वद् भवति / रत्नलालस्येव रत्नलालवत् भृगुलालस्य स्वभावः / . भावे त्वतल / 7 / 1 / 55 / षष्ठयन्ताद् भावेऽर्थे त्वतलौ भवतः / शब्दस्याथे प्रवृत्तिहेतुगुणो भावः / स च जातिगुणक्रियाद्रव्यस्वरूपादिरूपः / गोत्वम्, शुक्लत्वम्, कारकत्वम्, दण्डित्वम्, खत्वम् / गोता, शुक्लता, कारकता, दण्डिता, खता।.. ..