________________ ( 196) धर्माधर्माचरति / 6 / 4 / 49 / ... आम्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण भवति / धर्म चरति धार्मिकः, अधर्म चरति आधर्मिकः / ____षष्ठया धये / 6 / 4 / 50 / षष्ठयन्ताद् धम्र्येऽथें इकण भवति / 'न्यायानुवृत्त आचारो धर्मः, तस्मादनपेतं धर्म्यम् / शुल्कशालाया धयं शौल्कशालिकम् / अवक्रये / 6 / 4 / 53 / षष्ठयन्तादवक्रयेऽर्थे इकण भवति / अवक्रयो भाटकम् , आपणस्यावक्रय आपणिकः / शकटस्यावक्रयः शाकटिकः / तदस्य पण्यम् / 6 / 4 / 54 / तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् भवति / तच्चेत् प्रयमान्वं पण्यं भवेत् / अपूपाः पण्यं विक्रेयमस्य आपूपिकः / शिल्पम् / 6 / 4 / 57 / प्रथमान्तात् षष्ठ्यर्थे इकण भवति / तच्चेत् प्रथमान्तं शिल्लं भवेत् / नृत्तं शिल्पमस्य स नार्तिकः / अध्यापनं शिल्पमस्य स आध्यापनिकः / - शीलम् / 6 / 4 / 59 / प्रथमान्ताच्छीलार्थात् षष्ठ्यर्थे इकण् भवति / पठनं : शीलमस्य पाठनिकः / ईर्ष्या शीलमस्य स ऐयिको ब्राह्मणः / क्षण शीलमस्य स क्षामिको जैनमुनिः /