________________ ( 195) अवृद्धेर्गृह्णति गर्थे / 6 / 4 / 34 / द्वितीयान्ताद् वृद्धिवर्नाद् गृह्णत्यर्थे इकण् भवति / योऽसौ गृह्णाति स चेद् निन्द्यो भवेत् / द्विगुणं गृह्णाति द्वैगुणिकः, गुणिकः / अवृद्धेरिति किम्-वृद्धिं गृह्णातीति वाक्यमेव / परदारादिभ्यो गच्छति / 6 / 4 / 38 / परदारादिभ्यो द्वितीयान्तेभ्योः गच्छत्यर्थे इकण भवति / परदारान् गच्छति पारदारिकः, गुरुतल्पं गच्छति गौरुतल्पिकः, भ्रातजायां गच्छति भ्रातृजायिकः / 'पश्चात्यनुपदात् / अनुपदं धावति आनुपदिकः / . . मुस्नातादिभ्यः पृच्छति / 6 / 4 / 42 / . ... सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण भवति / सुस्नातं पृच्छति सौस्नातिकः, सुखरात्रिं पृच्छति सौखरात्रिकः / ..प्रभूतादिभ्यो ब्रुवति / 6 / 4 / 43 / .. प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण भवति / प्रभूतं ब्रूते प्राभूतिकः, पर्याप्तं ब्रवीति पार्याप्तिकः / वैपुलिकः / .... समूहार्थात् समवेते / 6 / 4 / 46 / / समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेतेऽर्थे इकण भवति / समूहं समवैति सामूहिकः / समाज समवैति सामाजिकः / ' पर्षदोण्यः' पर्षदि समवैतिं पार्षद्यः /