________________ (194) अक्षयूत इत्यादिभ्यस्तृतीयान्तेभ्यो निर्वृत्तेऽर्थे इकणू. भवति / अक्षयूतेन निर्वृत्तमाक्षचूतिकं वैरम्, जङ्घाप्रहतेन निवृत्तं जावाप्रहतिकम् / ' भावार्थादिमो वाच्यः / पाकेन निवृत्तं पाकिमम् / हरत्युत्सङ्गादेः / 6 / 4 / 23 / .. उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे भावे इकण भवति / उत्सङ्गेन हरति औत्सङ्गिकम्, एवमौडुपिकम् / ओजःसहोऽम्भसो वर्तते / 6 / 4 / 27 / ... तृतीयान्तेभ्य ओन इत्यादिभ्यो वर्ततेऽर्थे इकण भवति / ओजसा बलेन वर्तते औजसिका, साहसिकः, आम्भसिकः / रक्षदुञ्छतोः। 6 / 4 / 30 / द्वितीयान्ताद् रक्षतुल्छतोरिकण भवति / नगरं रक्षति नागरिकः / बदरमुञ्छति बादरिकः / / पक्षिमत्स्यमृगार्थाद् घ्नति / 6 / 4 / 31 / पक्ष्यर्थमत्स्यार्थमृगार्थवाचिभ्यो द्वितीयान्तेभ्यो नत्यर्थे इकण् भवति / पक्षिणो हन्ति पाक्षिकः / मत्स्यान् ध्नन्ति मात्स्यिकाः / मृगान् हन्ति मार्गिकः / हरिणं हन्ति हारिणिकः। .: परिपन्थात् तिष्ठति च / 6 / 4 / 32 / / द्वितीयान्तात् परिपथात् तिष्ठति नति चार्थे इकण् भवति / परिपन्थान् हन्ति पारिपान्धिकः, परिपन्य तिष्ठति पारिपान्थिकश्चौरः।