________________ ( 193) .. व्यञ्जनेभ्य उपसिक्ते / 6 / 4 / 8 / - तृतीयान्ताद् व्यञ्जनवाचिन उपसिक्तेऽर्थे इकण भवति / न्यञ्जनं सूपादि / सूपेनोपसिक्तः सौपिकः, तिलेनोपसिक्तं तैलिक शाकम् / __तरति / 6 / 4 / 9 / तृतीयान्तात् तरत्यर्थे इकण भवति / उडुपेन तरति औडुपिकः। तुम्बेन तरति तौम्बिकः, एवं घाटिकः, दार्तिकः / नौद्विस्वरादिकः ' नावा तरति नाविकः / बाहुभ्यां तरति बाहुकः / चरति / 6 / 4 / 11 / टान्ताच्चरत्यर्थे इकण भवति / हस्तिना चरति हास्तिकः / दध्ना चरति भक्षयति दाधिकः / ' पदिको निपात्यः , पादाभ्यां चरति पदिकः / वेतनादेर्जीवति / 6 / 4 / 15 / वेतनादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण भवति / वेतनेन जीवति वैतनिकः पण्डितः, वादेन जीवति वादिकः, कलहेन जीवति कालहिकः / 'क्रयविक्रयादिको वाच्यः क्रयविक्रयेण जीवति क्रयविक्रयिक आङ्ग्लदेशः, क्रयेण जीवति क्रयिका इदानींतनी भारतभूः, विक्रयेण जीवति विक्रयिक: जर्मनदेशः। 'आयुधादीग' आयुधेन जीवति आयुधीयः, आयुधिकः / ...' . निर्वृत्तेऽक्षयूतादेः। 6 / 4 / 20 / 13 नित