________________ ( 176 ) त्रपुंजतोः षोन्तश्च / 6 / 2 / 33 / आभ्यां विकारेऽण् भवति, षश्चान्तः / त्रापुषम् / जातुषम् / उष्टादकञ् / 6 / 2 / 36 / ___अस्माद् विकारेऽवयवे चाकञ् भवति / उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकम् / 'शमीशब्दाद् लो वाच्यः' शामीलं भस्म काण्डं वा / ' पयोद्रोर्यः / पयस्यम् , द्रव्यम् / 'एण्या एयञ् / एण्या विकारोऽवयवो वा ऐणेयं मांसमङ्गम् / शुरुषात् कृतहितवधविहारे यञ्६ / 2 1 20.6 पुरुषशब्दादेष्वर्थेषु समूहे चैयञ् भवति / पुरुषाणां कृतो हितं वधो विकारः समूहो वा पौरुषेयो ग्रन्थः, पौरुषेयं पथ्यम्, पौरुषेयो वधो विकारों वा, पौरुषेयः समूहः / अवेर्दुग्धे सोढदूसमरीसम् / 6 / 2 / 64 / अविशब्दाद् दुग्धेऽर्थे एते प्रत्यया भवन्ति / अवेर्दुग्धम्अविसोढं, अविदूसम्, अविमरीसम् / / पितृमातुयडुलं भ्रातरि / 6 / 2 / 62 / - पितृमातृभ्यां भ्रातर्यर्थे व्यडुलौ भवतः / पितुर्भ्राता पितृव्यः / मातुर्धाता मातुलः / पितृमातृभ्यां पितृमात्रोस्तु डामहद् वाच्यः पितुः पिता माता वा पितामहः पितामही, मातुः पिता माता वा मातामहः मातामही।